प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम।
भक्तावासं स्मरेनित्यंमायुः कामार्थसिद्धये।। – १
प्रथमं वक्रतुंड च एकदंतं द्वितीयकम।
तृतीयं कृष्ण पिंगाक्षम गजवक्त्रं चतुर्थकम।। – २
लामोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजेंद्रम धूम्रवर्णं तथाष्टकम।। – ३
नवं भालचन्द्रं च दशमं तु विनायकम।
एकादशं गणपतिं द्वादशं तु गजाननम।। – ४
द्वादशैतानि नामानि त्रिसंध्य यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।। – ५
विद्यार्थी लभते विद्यां धनार्थी लभते धनम।
पुत्रार्थी लभते पुत्रां मोक्षार्थी लभते गतिम्।। – ६
जपेदगणपति स्तोत्रं षड्भिर्मासैः फलम लभेत।
संवत्सरेण सिद्धिं च लभते नात्र संशयः।। – ७
अष्टभ्यो ब्राह्मणेभ्यश्चः लिखित्वां यः समर्पयेत।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः।। – ८
।। इति श्री नारदपुराणे संकटनाशनं गणेशस्तोत्रं सम्पूर्णम ।।